|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.210. अध्यायः 210
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति नारदाय श्रीनारायणोक्तस्य प्रयाणकाले श्रीभगवदनुस्मृतिप्रकारस्य कथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
`युधिष्ठिर उवाच। 12-210-0x(6075)(73436)
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः॥ 12-210-1(73437)
किंनु स्मरन्कुरुश्रेष्ठ मरणे समुपस्थिते।
प्राप्नुयात्परमां सिद्धिं श्रोतुमिच्छामि तत्वतः॥ 12-210-2(73438)
भीष्म उवाच। 12-210-3x(6076)
त्वद्युक्तश्च हितः सूक्ष्म उक्तः प्रश्नस्त्वयाऽनघ।
शृणुष्वावहितो राजन्नारदेन पुरा श्रुतम्॥ 12-210-3(73439)
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम्।
पुरा नारायणं देवं नारदः पर्यपृच्छत॥ 12-210-4(73440)
अक्षरं परमं ब्रह्म निर्गुणं तमसः परम्।
आहुर्वैद्यं परं धाम ब्रह्मादिकमलोद्भवम्॥ 12-210-5(73441)
भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः।
कथं भक्तैर्विचिन्त्योसि योगिभिर्मोक्षकाङ्क्षिभिः॥ 12-210-6(73442)
किंनु जप्यं जपेन्नित्यं काल्यमुत्थाय मानवः।
स्मरेच्च म्रियमाणो वै विशेषेण महाद्युते॥ 12-210-7(73443)
कथं युञ्जन्समाध्यायेद्ब्रूहि तत्वं सनातनम्॥ 12-210-8(73444)
श्रुत्वा च नारदोक्तं तु देवानामीश्वरः स्वयम्।
प्रोवाच भगवान्विष्णुर्नारदं वरदः प्रभुः॥ 12-210-9(73445)
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम्।
यामधीत्य प्रयाणे तु मद्भावयोपपद्यते॥ 12-210-10(73446)
ओंकारमग्रतः कृत्वा मां नमस्कृत्य नारद।
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत्॥ 12-210-11(73447)
ओं नमो भगवते वासुदेवायेति॥ 12-210-12(73448)
इत्युक्तो नारदः प्राह प्राञ्जलिः प्रणतः स्थितः।
सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम्॥ 12-210-13(73449)
नारद उवाच। 12-210-14x(6077)
अव्ययं शाश्वतं देवं प्रभवं पुरुषोत्तमम्।
प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम्॥ 12-210-14(73450)
पुराणं प्रभवं विष्णुमक्षयं लोकसाक्षिणम्।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम्॥ 12-210-15(73451)
लोकनाथं सहस्राक्षमद्भुतं परदं पदम्।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम्॥ 12-210-16(73452)
स्रष्टारं सर्वलोकानामनन्तं सर्वतोमुखम्।
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम्॥ 12-210-17(73453)
हिरण्यगर्भममृतं भूगर्भं परतः परम्।
प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम्॥ 12-210-18(73454)
सहस्रशीर्षं पुरुषं महर्षि तत्वभावनम्।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम्॥ 12-210-19(73455)
नारायणं पुराणर्षि योगात्मानं सनातनम्।
संस्थानं सर्वतत्वानां प्रपद्ये ध्रुवमीश्वरम्॥ 12-210-20(73456)
यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम्।
परावरगुरुर्विष्णुः स मे देवः प्रसीदतु॥ 12-210-21(73457)
यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः सनातनः।
ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु॥ 12-210-22(73458)
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे।
ब्रह्मादिषु प्रलीनेषु नष्टे लोकपरावरे॥ 12-210-23(73459)
आभूतसंप्लवे चैव प्रलीनेऽप्राकृतो महान्।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु॥ 12-210-24(73460)
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हुयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु॥ 12-210-25(73461)
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये।
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु॥ 12-210-26(73462)
अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम्।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु॥ 12-210-27(73463)
योगावास नमस्तुभ्यं सर्वावास वरप्रद।
यज्ञगर्भ हिरण्याङ्गं पञ्चयज्ञ नमोस्तु ते॥ 12-210-28(73464)
चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित।
सर्वावास नमस्तेऽस्तु वासुदेव प्रधानकृत्॥ 12-210-29(73465)
अजस्त्वनामयः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत्।
विकर्तः पञ्चकाज्ञ नमस्ते ज्ञानसागर॥ 12-210-30(73466)
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः॥ 12-210-31(73467)
न प्रधानो न च महान्पुरुषश्चेतनो ह्यजः।
अनयोर्यः परतरस्तमस्मि शरणं गतः॥ 12-210-32(73468)
चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम्।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः॥ 12-210-33(73469)
जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः॥ 12-210-34(73470)
एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः।
अग्राह्यं निर्गुणं नित्यं तमस्मि शरणं गतः॥ 12-210-35(73471)
सोमार्काग्निमयं तेजो या च तारमयी द्युतिः।
दिवि संजायते योऽयं स महात्मा प्रसीदतु॥ 12-210-36(73472)
गुणादिर्निर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः।
सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु॥ 12-210-37(73473)
साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु॥ 12-210-38(73474)
अव्यक्तः समधिष्ठाता अचिन्त्यः सदसत्परः।
अस्थितिः प्रकृतिश्रेष्ठः स महात्मा प्रसीदतु॥ 12-210-39(73475)
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः।
महान्गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु॥ 12-210-40(73476)
सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता।
भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु॥ 12-210-41(73477)
नमस्ते सर्वतः सर्वं सर्वतोक्षिशिरोमुख।
निर्विकार नमस्तेऽस्तु साक्षी क्षेत्रध्रुवस्थितिः॥ 12-210-42(73478)
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे।
ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते॥ 12-210-43(73479)
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः।
मान्यभक्ता विजानन्ति न पुनर्भवका द्विजाः॥ 12-210-44(73480)
एकान्तिनो हि निर्द्वन्द्वा निराशीःकर्मकारिणः।
ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः॥ 12-210-45(73481)
अशरीरं शरीरस्थं समं सर्वेषु देहिषु।
पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्राविशन्त्युत॥ 12-210-46(73482)
अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च।
त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि॥ 12-210-47(73483)
एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम्।
समोसि सर्वभूतेषु न ते द्वेष्योस्ति न प्रियः॥ 12-210-48(73484)
समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा।
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम्।
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव॥ 12-210-49(73485)
स्रष्टा भोक्तासि कूटस्थो ह्यतत्वं तत्वसंज्ञिकः।
अकर्ता हेतुरचलः पृथगात्मन्यवस्थितः॥ 12-210-50(73486)
न ते भूतेषु संयोगो भूततत्वगुणाधिकः।
अहङ्कारेण बुद्ध्या वा न ते योगस्त्रिभिर्गुणैः॥ 12-210-51(73487)
न मोक्षधर्मो वा न त्वं नारम्भो जन्म वा पुनः।
जरामरणमोक्षार्थं त्वां प्रपन्नोस्मि सर्वग॥ 12-210-52(73488)
ईश्वरोसि जगन्नाथ ततः परम उच्यसे।
भक्तानां यद्धितं देव तद्ध्याहि त्रिदशेश्वर॥ 12-210-53(73489)
विषयैरिन्द्रियैर्वाऽपि न मे भूयः समागमः।
पृथिवीं यातु गन्धो वै रसं यातु जलं तथा॥ 12-210-54(73490)
तेजो हुताशनं यातु स्पर्शो यातु च मारुतम्।
श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः॥ 12-210-55(73491)
इन्द्रियाण्यपि संयान्तु स्वासुस्वासु च योनिषु।
पृथिवी यातु सलिलमापोग्निमनलोऽनिलम्॥ 12-210-56(73492)
वायुराकाशमप्येतु मनश्चाकाश एव च।
अहंकारं मनो यातु मोहनं सर्वदेहिनाम्॥ 12-210-57(73493)
अहंकारस्ततो बुद्धिं बुद्धिरव्यक्तमच्युत॥ 12-210-58(73494)
प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते।
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत्॥ 12-210-59(73495)
निष्केवलं पदं तात काङ्क्षेऽहं परमं तव।
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः॥ 12-210-60(73496)
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तिस्त्वत्परायणः।
त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते॥ 12-210-61(73497)
पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम्।
अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु॥ 12-210-62(73498)
अनुध्यातोऽसि देवेश न मे जन्म भवेत्पुनः।
तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति॥ 12-210-63(73499)
नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसंचिताः।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम्॥ 12-210-64(73500)
श्रीभगवानुवाच। 12-210-65x(6078)
अहं भगवतस्तस्य मम चासौ सनातनः।
तस्याहं न प्रणश्यासि स च मे न प्रणश्यति॥ 12-210-65(73501)
कर्मेन्द्रियामि संयम्य पञ्च बुद्धीन्द्रियाणि च।
दशेन्द्रियाणि मनसि अहंकारे तथा मनः॥ 12-210-66(73502)
अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत्।
यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बुद्ध्येत्परात्पम्॥ 12-210-67(73503)
ममायमिति यस्याहं येन सर्वमिदं तततम्।
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम्॥ 12-210-68(73504)
मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत्।
अपि पापसमाचारः स याति परमां गतिम्॥ 12-210-69(73505)
ओं नमो भगवते तस्मै देहिनां परमात्मने।
नारायणाय भक्तानामेकनिष्ठाय शाश्वते॥ 12-210-70(73506)
इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः।
स्वपन्विबुद्धश्च पठेद्यत्र तत्र समभ्यसेत्॥ 12-210-71(73507)
पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः।
श्रावयेच्छ्रद्दधानांश्च मद्भक्तांश्च विशेषतः॥ 12-210-72(73508)
यद्यहंकारमाश्रित्य यज्ञदानतपः क्रियाः।
कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं न तु॥ 12-210-73(73509)
अभ्यर्चयन्पितॄन्देवान्पठञ्जुह्वन्यलिं ददत्।
ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम्॥ 12-210-74(73510)
यज्ञो दानं तपश्चैव पावनानि शरीरिणाम्।
यज्ञं दानं तपस्तस्मात्कुर्यादाशीर्विवर्जितः॥ 12-210-75(73511)
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद॥ 12-210-76(73512)
किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम्।
श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः॥ 12-210-77(73513)
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते।
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः।
अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्येव पदं मम॥ 12-210-78(73514)
अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम्।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम्॥ 12-210-79(73515)
तस्मात्प्रेदयं साधुभ्यो जन्मबन्धभयापहम्।
एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति॥ 12-210-80(73516)
अश्वमेधसहस्राणां सहस्रं यः समाचरेत्।
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते॥ 12-210-81(73517)
भीष्म उवाच। 12-210-82x(6079)
एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा।
यदुवाच तदाऽसौ भो तदुक्तं तव सुव्रत॥ 12-210-82(73518)
त्वमप्येकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम्।
भजस्व सर्वभावेन परमात्मानमव्ययम्॥ 12-210-83(73519)
श्रुत्वैतन्नारदो वाक्यं दिव्यं नारायणेरितम्।
अत्यन्तभक्तिमान्देव एकान्तत्वमुपेयिवान्॥ 12-210-84(73520)
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक्।
इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम्॥ 12-210-85(73521)
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः॥ 12-210-86(73522)
इमां रहस्यां परमामनुस्मृति
मधीत्य बुद्धिं लभते च नैष्ठिकीम्।
विहाय दुःखान्यवमुच्य सङ्कटा
त्स वीतरागो विगतज्वरः सुखी॥ ॥ 12-210-87(73523)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि दशाधिकद्विशततमोऽध्यायः॥ 210॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-210-1 श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयमिति थ. पाठः॥ 12-210-14 अव्यक्तं शाश्वतं देवमि ट.थ. पाठः॥ 12-210-15 पुराणं प्रभवं नित्यमिति ट. थ. पाठः॥ 12-210-30 त्रिकर्तः पञ्चकालज्ञेति ट.थ. पाठः॥ 12-210-44 न पुनर्मारका द्विजा इति ट. थ. पाठः॥ 12-210-46 त्वां विशन्ति विनिश्चिता इति ध. पाठः॥ 12-210-52 न मे धर्मो ह्यधर्मो वेति ट. थ. पाठः॥ 12-210-54 पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम्। रूपं हुताशनं यातु इति ट. थ. पाठः॥ 12-210-60 निष्केवलं वरं देवेति ध. पाठः॥ 12-210-74 जपन्भिन्नं स्मरेदिति ध. पाठः॥ 12-210-78 मद्भक्तो नान्तमश्नुत इति ट. थ. पाठः॥ 12-210-82 यदुवाच तदा शंभुरिति ट. थ. पाठः॥ 12-210-87 स वीतरागो विचरेदिमां महीम्। इति ट. थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|